Gangadhar Aarti
Aarti
1
ॐ जय गंगाधर जय हर जय गिरिजाधीशा । त्वं मां पालय नित्यं कृपया जगदीशा ॥ हर हर हर महादेव ॥ १॥
2
कैलासे गिरिशिखरे कल्पद्रुमविपिने । गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥
3
कोकिलकूजित खेलत हंसावन ललिता । रचयति कलाकलापं नृत्यति मुदसहिता ॥ हर हर हर महादेव ॥ २॥
4
तस्मिल्ललितसुदेशे शाला मणिरचिता । तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
5
क्रीडा रचयति भूषारञ्जित निजमीशम् । इन्द्रादिक सुर सेवत नामयते शीशम् ॥ हर हर हर महादेव ॥ ३॥
6
बिबुधबधू बहु नृत्यत हृदये मुदसहिता । किन्नर गायन कुरुते सप्त स्वर सहिता ॥
7
धिनकत थै थै धिनकत मृदङ् वादयते । क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥ हर हर हर महादेव ॥ ४॥
8
रुण रुण चरणे रचयति नूपुरमुज्ज्चलिता । चक्रावर्ते भ्रमयति कुरुते तां धिक ताम् ॥
9
तां तां लुप चुप तां तां डमरू वादयते । अंगुष्ठांगुलिनादं लासकतां कुरुते ॥ हर हर हर महादेव ॥ ५॥
10
कर्पूरद्युतिगौरं पञ्चाननसहितम् । त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥
11
सुन्दरजटाकलापं पावकयुतभालम् । डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ हर हर हर महादेव ॥ ६॥
12
मुण्डै रचयति माला पन्नगमुपवीतम् । वामविभागे गिरिजारूपं अतिललितम् ॥
13
सुन्दरसकलशरीरे कृतभस्माभरणम् । इति वृषभध्वजरूपं तापत्रयहरणम् ॥ हर हर हर महादेव ॥ ७॥
14
शङ्खनिनादं कृत्वा झल्लरि नादयते । नीराजयते ब्रह्मा वेदकऋचां पठते ॥
15
अतिमृदुचरणसरोजं हृत्कमले धृत्वा । अवलोकयति महेशं ईशं अभिनत्वा ॥ हर हर हर महादेव ॥ ८॥
16
ध्यानं आरति समये हृदये अति कृत्वा । रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
17
संगतिमेवं प्रतिदिन पठनं यः कुरुते । शिवसायुज्यं गच्छति भक्त्या यः शृणुते ॥ हर हर हर महादेव ॥ ९॥