Doshaparihara Ashtakam with meaning
Ashtakam
1
अन्यस्य दोषगणनाकुतुकं ममैत- दाविष्करोति नियतं मयि दोषवत्त्वम्। दोषः पुनर्मयि न चेदखिले सतीशे दोषग्रहः कथमुदेतु ममेश तस्मिन्॥
2
5. My mind becomes dirty by carrying the resulting dirt through criticism of others. Hence shoud I not avoid such a habit? निर्दोषभावमितरस्य सदोषभावं स्वस्यापि संविदधती परदोषधीर्मे। आस्तामियं तदितरा तु परार्तिमात्र- हेतुर्व्यनक्तु न कथं मम तुच्छभावम्॥
3
इति श्रीश्रीधर अय्यावालकृत दोषपरिहाराष्टकं सम्पूर्णम्॥
4
Thus ends the prayer for removal of faults composed by Shridhara Avvyavala दोषपरिहाराष्टकम् अन्यस्य दोषगणनाकुतुकं ममैतदाविष्करोति नियतं मयि दोषवत्त्वम्। दोषः पुनर्मयि न चेदखिले सतीशे दोषग्रहः कथमुदेतु ममेश तस्मिन्॥
5
एषा व्यथेतरकृतेति ममेश तस्मिन् कोपो यदि स्वपरकाममुखप्रसूता। सेयं व्यथेति मयि मे न कथन्नु कोपः स्वस्य व्यथा स्वदुरितप्रभवा हि सर्वा॥
6
कामप्रभृत्यखिलदोषनिधेर्ममैष मय्याह दोषमिति को नु दुराग्रहोऽस्मिन्। हेयत्वमालपति योऽयमलं न केन वार्योऽथ सत्त्ववति सोऽयमसत्किमाह॥
7
यः संश्रितः स्वहितधीर्व्यसनातुरस्तद्दोषस्य तं प्रति वचोऽस्तु तदन्यदोषम्। यद्वच्मि तन्मम न किं क्षतये स्वदोषचिन्तैव मे तदपनोदफलोचिताऽतः॥
8
दोषं परस्य ननु गृह्णति मय्यनेन स्वात्मैष एव परगात्रसमाहृतेन। दुर्वस्तुनेव मलिनीक्रियते तदन्यदोषग्रहादहह किं न निवर्तितव्यम्॥
9
निर्दोषभावमितरस्य सदोषभावं स्वस्यापि संविदधती परदोषधीर्मे। आस्तामियं तदितरा तु परार्तिमात्रहेतुर्व्यनक्तु न कथं मम तुच्छभावम्॥
10
पद्मादिसौरभ इव भ्रमरस्य हर्षं हित्वाऽन्यदीयसुगुणे पुनरन्यदोषे। हर्षो दुरर्थ इव गेहकिटेः किमास्ते हा मे कदेश कृपया विगलेत्स एषः॥
11
दोषे स्वभाजि मतिकौशलमन्यभाजि मौढ्यं गुणेऽन्यजुषि हर्षभरः स्वभाजि। अस्तप्रसक्तिरखिलेषु दयात्युदारवृत्त्योर्जितो मम कदाऽस्तु हरानुरागः॥
12
इति श्रीश्रीधर अय्यावालकृत दोषपरिहाराष्टकं सम्पूर्णम्॥