Shrikrishna Dattavarashtakam
Ashtakam
1
मुनीन्द्राणां चेतीविषयममलं कञ्जनयनं दयासिन्धुं शौरिं स्वमनसि निधायामरतरुम्। वदाम्यादौ बुद्धेरभिलषितमेनं मपुधुरी- निवासी कृष्णाख्या रुचिदमिह नामैकशरणः॥
2
श्रीनन्दात्मज भक्तवत्सल हरे मे प्रार्थनां त्वं शृणु ब्रह्माण्डानि मुखानि मे प्रतिदिनं यावन्ति लोमेषु ते। हे कृष्णेति वदन्तु ताः प्रतिमुखं तावन्ति जिह्वां मम स्युर्मे दानमिदं हि देहि स तदा कृष्णस्तथाऽस्तूक्तवान्॥
3
अन्यां तां शृणु कीर्तिवज्जनगते श्रुत्वा च पूर्णं कुरु भक्तानां त्वयि यावती तव विभो त्रैकालिकानां रुचिः। नाम्नो वै युवयोः सदा भवतु मे गाने रुचिस्तावती त्वत्तोऽन्यत्र मनः प्रयातु न तदा कृष्णस्तथाऽस्तूक्तवान्॥
4
नीरौघाः प्रलये यथा यदुपते वर्धन्ति कृष्णामिताः प्रीतिर्वर्ध्तु मे मुकुन्द भवतः श्रीशाभिधाने तथा। उत्साहो हृदि नामते यदि भवेद्गायं तु रोमाणि मे मार्गे चासनगो जपान्यहरहः कृष्णस्तथाऽस्तूक्तवान्॥
5
अन्याऽमेस्त्याभिशस्त्रिका च भगवन् प्राणे गते कायतः (अन्याऽमेस्त्याभिप्रार्थना) कृष्णेति ति प्रसभं त्वतीव जपतु प्राणैर्विहिनास्तनुः। भिन्ना लोमगणाः कदाचिदपि ते कायन्तु कृष्णं शवा (गायन्तु कृष्णं) ब्रह्माण्डेषु गताश्च येषु सह तैः कृष्णस्तथाऽस्तूक्तवान्॥
6
हे गोविन्द ममाभिलाषकमिमं देवप्रभो पूरय स्थास्नूनां भुवनेषु सन्ति विजने यावन्ति बीजानि च। अन्नादे प्रति ते जपानि कवलं तावन्ति नामान्यहं गच्छाम्यध्वनि यत्र साध्वगनृभिः कृष्णस्तथाऽस्तूक्तवान्॥
7
याञ्चा मेऽस्ति तथैव निर्जरपते दामोदराधोक्षज यत्राहं च यदा स्वपानि वरद त्वं तत्र मेऽर्थं जप। श्रीराधा त्वयि तज्जपेच्छ्रमयुते मातेव हृद्यङ्करी मेऽखण्डः सुजपो भवेदिति तदा कृष्णस्तथाऽस्तूक्तवान्॥
8
अन्यां कृष्ण शृणुष्व दुर्घटकरीं मायापते मेऽर्थनाम् ते नामानि जपेयमेव भुवने यावन्ति भानि क्षणे। (भानि एवं नक्षत्राणि) ते नामस्मरणं कृतं सुमतिभिर्यावत्करिष्यन्ति ये प्रत्युच्छ्वासमथो स्मरानि तदहं कृष्णस्तथाऽस्तूक्तवान्॥
9
विष्वक्सेन विधो शृणुष्व चरमं शौरे गुरो लालसं (विष्वक्सेन हरे) काङ्क्षेद्यस्तव नाम वारिधिझषस्त्रैलोक्यमोक्षं यदा। कार्यं नैव विलम्बनं च भवता तस्माद्बहूंस्तारय तस्यान्ते सह राधया निवसतात् कृष्णस्तथाऽस्तूक्तवान्॥