shrIgokuleshAShTakam
Ashtakam
1
नन्दगोपभूपवंशभूषणं विभूषणं var विदूषणं भूमिभूतिभुरिभाग्यभाजनं भयापहम्। धेनुधर्मरक्षणावतीर्णपूर्णविग्रहम् नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
2
गोपबालसुन्दरीगणावृतं कलानिधिं रासमण्डलीविहारकारिकामसुन्दरम्। पद्मयोनिशङ्करादिदेववृन्दवन्दितं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
3
गोपराजरत्नराजिमन्दिरानुरिङ्गणं गोपबालबालिकाकलानुरुद्धगायनम्। सुन्दरीमनोजभावभाजनाम्बुजाननं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
4
कंसकेशिकुञ्जराजदुष्टदैत्यदारणं इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम्। कामधेनुकारिताभिधानगानशोभितं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
5
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम्। धेनुधूलिधूसराङ्गशोभिहारनूपुरं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
6
वत्सधेनुगोपबालभीषणोत्थवह्निपं केकिपिच्छकल्पितावतंसशोभिताननम्। वेणुवाद्यमत्तधोषसुन्दरीमनोहरं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
7
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं शारदारविन्दवृन्दशोभिहंसजारतम्। दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
8
वासरावसानगोष्ठगामिगोगणानुगं धेनुदोहदेहगेहमोहविस्मयक्रियम्। स्वीयगोकुलेशदानदत्तभक्तरक्षणं नीलवारिवाहकान्तिगोकुलेशमाश्रये॥
9
इति श्रीरघुनाथप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम्॥