Shri Lokanathaprabhuvarashtakam
Ashtakam
1
यः कृष्णचैतन्यकृपैकवित्त- स्तत्प्रेमहेमाभरणाढ्यचित्तः। निपत्य भूमौ सततं नमाम- स्तं लोकनाथं प्रभुमाश्रयामः॥
2
यो लब्धवृन्दावननित्यवासः परिस्फुरत्कृष्णविलासरासः। स्वाचारचर्यसतताविराम- स्तं लोकनाथं प्रभुमाश्रयामः॥
3
सदोल्लसद्भागवतानुरक्त्या यः कृष्णराधाश्रवणादिभक्त्या। अयातयामीकृतसर्वयाम- स्तं लोकनाथं प्रभुमाश्रयामः॥
4
वृन्दावनाधीशपदाब्जसेवा स्वादेऽनुमज्जन्ति न हन्त के वा। यस्तेष्वपि श्लाघातमोऽभिराम- स्तं लोकनाथं प्रभुमाश्रयामः॥
5
यः कृष्णलीलारस एव लोकान् अनुन्मुखान्वीक्ष्य बिभर्ति शोकान्। स्वयं तदास्वादनमात्रकाम- स्तं लोकनाथं प्रभुमाश्रयामः॥
6
कृपाबलं यस्य विवेद कश्चित् नरोत्तमो नाम महान्विपश्चित्। यस्य प्रथीयान्विषयोपराम- स्तं लोकनाथं प्रभुमाश्रयामः॥
7
रागानुगावर्त्मनि यत्प्रसादा- द्विशन्त्याविज्ञा अपि निर्विषादाः। जने कृतागस्यपि यस्त्ववाम- स्तं लोकनाथं प्रभुमाश्रयामः॥
8
यद्दासदासानुदासदासाः वय्हं भवामः फलिताभिलाषाः। यदीयतायां सहसा विशाम- स्तं लोकनाथं प्रभुमाश्रयामः॥
9
श्रीलोकनाथाष्टकमत्युदारं भक्त्या पठेद्यः पुरुषार्थसारम्। स मञ्जुलालीपदवीं प्रपद्य श्रीराधिकां सेवत एव सद्यः॥
10
सोऽयं श्रीलोकनाथः स्फुरतु पुरुकृपारश्मिभिः स्वैः समुद्यन् उद्धृत्योद्धृत्य यो नः प्रचुरतमतमः कूपतो दीपिताभिः। दृग्भिः स्वप्रेमवीथ्या दिशमदिशदहो यां श्रिता दिव्यलीला रत्नाढ्यं विन्दमाना वयमपि निभृतं श्रीलगोवर्धनं स्मः॥
11
इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीलोकनाथप्रभुवराष्टकं सम्पूर्णम्॥