Sumadhura Ashtakam
Ashtakam
1
तुलसी मधुरा दयणा मधुरा रसना मधुरा कविता मधुरा। मधुरा नगरी मधुरेशपुरी बडठाकुर ते पलभा मधुरा॥
2
नेत्रे मधुरे हास्यं मधुरं यात्रा मधुरा घोषो मधुरः। चलनं मधुरं वदनं मधुरं करुणाकर ते वसनं मधुरम्॥
3
मुकुटो मधुरः कपटं मधुरं दृष्टिर्मधुरा सृष्टिर्मधुरा। रसनं मधुरं वसनं मधुरं भुवनेश्वर ते निकटं मधुरम्॥
4
कूलं मधुरं शीलं मधुरं यवनो मधुरो भुवनं मधुरम्। मधुरं मधुरं प्रणमामि सुरं मधुमाधव ते निखिलं मधुरम्॥
5
यानं मधुरं मानं मधुरं वेशो मधुरः केशो मधुरः। गृहिणी मधुरा विपणी मधुरा पुरुषोत्तम ते रमणं मधुरम्॥
6
लीला मधुरा शाला मधुरा विमला मधुरा कमला मधुरा। अशनं मधुरं शयनं मधुरं कमलावर ते कवनं मधुरम्॥
7
हारो मधुरो वेरं मधुरं चिकुरो मधुरो रसितं मधुरम्। विधुरं मधुरं त्वरितं मधुरं परमेश्वर ते चरितं मधुरम्॥
8
श्रवणं मधुरं भजनं मधुरं क्वणितं मधुरं भणितं मधुरम्। विषयो मधुरो हृदयं मधुरं मधुसूदन ते भ्रमणं मधुरम्॥