Shri Aghora Ashtakam

Ashtakam

1

कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम्। रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

2

जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः। घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

3

नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम्। लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

4

धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?)। विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

5

घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम्। (जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

6

भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक् हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम्। स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ? वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

7

यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च(च्च) वज्रार्चिषो भूतप्रेतपिशाचराक्षसकलानिर्घातपाता इव(दिव)। उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

8

यद्ध्यानो ध्रुवपूरुषो(ध्यानोद्यतपूरुषो)षितगृहग्रामस्थिरास्थायिनो भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव। यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम्॥

9

इति श्रीअघोराष्टकं सम्पूर्णम्॥