Uttarachataka Ashtakam
Ashtakam
1
स्वच्छाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा। स्वल्यं वा बहुधा जलं जलधर त्वं देहि मा देहि वा॥
2
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक् तच्चापि शिरोनतिः किमपरं हेयं भवेन्मानिनाम्। इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उद्ग्रीवस्तव वारिवाह कुरुते धाराधरालोकनम्॥
3
के वा न सन्ति भुवि तामरसावतंसा हंसावलोवलयिनो जलसन्निवेशाः। किं चातकः फलमवेक्ष्य सवग्रपातां पौरन्दरीमुपगतो नववारिधाराम्॥
4
रे धाराधर धीरनीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया। एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन् आश्चर्यं परिपीडीतोऽभिरमते यच्चातकस्तृष्णया॥
5
आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः। नास्ति क्षतिर्नोपचितिः कदापि पयोदवृत्तेः खलु चातकस्य॥
6
पोयोद हे वारि ददासि वा नवा त्वदेकचित्तः पुनरेष चातकः। वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनाम्॥
7
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम्। तदपि न कुप्यति जलदे गतिरिह नान्या यतस्तस्य॥
8
एकएव खगमणिश्चिरं जीवतु चातकः। पिपासया वा म्रियते याचते वा पुरन्दरान्॥