Nirajanashtakam
Ashtakam
1
ओङ्कारबीजे भुवि मन्त्रमूर्तौ ब्रह्मात्मशब्दे हरिशङ्करे वा। देवेषु देवीचरणेषु शश्व- दारात्रिकं मङ्गलमातनोमि॥
2
घृतेन सिक्तं खलु वर्त्तिकाभि- र्विनिर्मितं वह्नियुतं सुगुच्छम्। सर्वाङ्गपूर्णं चिरसुन्दरं त- मारात्रिकं मङ्गलमातनोमि॥
3
प्रशस्तपात्रे घृतवर्त्तिकाभि- र्दीपैश्च धूपैस्तिलतैलवासैः। प्रचण्डतेजोमयदिव्यभास- मारात्रिकं मङ्गलमातनोमि॥
4
कर्पूरगौरेण सुवासितेन ज्वलत्प्रभापावकयोजनेन। स्तोत्रेण वाद्यादिभिरर्चनेन आरात्रिकं मङ्गलमातनोमि॥
5
शङ्खैर्मृदङ्गानकघण्टघण्टा- काहालतुर्यादिभिः झल्लकैर्वा। सुघोषमन्त्रैर्हरिकीर्तनैश्च आरात्रिकं मङ्गलमातनोमि॥
6
दूर्वासपुष्पैस्तुलसीदलैश्च विल्वादिपर्णैर्बहुसज्जितञ्च। पक्वैः फलैस्तण्डुलपूर्णकुण्डे आरात्रिकं मङ्गलमातनोमि॥
7
प्रातश्च सायं घनसारहस्तं माध्याह्निके सौरभपुष्पयुक्तम्। काये च वाक्ये मनसा प्रसन्न- मारात्रिकं मङ्गलमातनोमि॥
8
योगे न भोगे सकलेषु दीप्तः कुज्ञानतप्तो न च भावभक्तिः। विश्वासलिप्तस्तव पादपद्मे आरात्रिकं मङ्गलमातनोमि॥