Shri Lakshminarayana Ashtakam
Ashtakam
1
आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥
2
अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
3
भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
4
सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
5
चिदचित्सर्वजन्तूनां आधारं वरदं परम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
6
शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
7
पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
8
हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥
9
यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम्। विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति॥
10
इति श्रीलक्ष्मीनारायणाष्टकं सम्पूर्णम् ।॥