Shri Samba Ashtakam

Ashtakam

1

सन्तः पुत्राः सुहृद उत वा सत्कलत्रं सुगेहं वित्ताधीशप्रतिमवसुमान् बोभवीतु प्रकामम्। कीर्तिच्छटा वा आशास्वास्ताममृतकिरणस्पर्धि सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

2

वादे सर्वानपि विजयतां सत्सभायां नृपाग्रे भोगान्सत्त्वाननुभवतु वा दैवतैरप्यलभ्यान्। भूमौ नीरे वियति चरितुं वर्ततां योगशक्तिः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

3

रूपं वाऽऽस्तां कुसुमविशिखाखर्वगर्वापहारि शौर्यं वास्ताममरपतिसङ्क्षोभदक्षं नितान्तम्। पृथ्वीपालप्रवरमकुटाघट्टनं स्यात्पदे वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

4

गेहे सन्तु प्रवरभिषजः सर्वरोगापनोदाः देशे देशे बहुधनयुता बन्धवः सन्तु कामम्। सर्वे लोका अपि वचनतो दासवत्कर्म कुर्युः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

5

अध्यास्तां वा सुमणिखचितं दिव्यपारीण पीठं (दिव्यपारीन्द्र) हस्त्यश्वाद्यैरपि परिवृतो द्वारदेशोऽस्तु कामम्। भूष्यन्तां वाऽऽभरणनिवहैरङ्गकान्यर्घशून्यैः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

6

धत्तां मूर्ध्नि प्रवरमणिभिर्जुष्टदीव्यत्किरीटं वस्तां देहं विविधवसनैर्हेमसूत्रावबद्धैः। आरुह्यासौ विचरतु भुवं तिर्यगान्दोलिकां वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

7

सर्वशान्तप्रकटितरवैर्बन्दिभिः स्तूयतां वा भेरीढक्काप्रमुखबिरुदं दिक्षु दंध्वन्यतां वा। पृथ्वीं सर्वामवतु रिपुभिः क्रान्तपादाग्रपीठः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥

8

हृद्यां पद्यावलिमपि करोत्वर्थचित्रं सुकव्यं षट्छास्त्रेष्वप्यमितधिषणो ग्रन्थसन्दोहकर्ता। सर्वेषां स्यादमितहृदयानन्ददो वाङ्मुखैर्वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः॥