Shri Vijayaramacharya Ashtakam
Ashtakam
1
श्रौतवैष्णवधर्मस्य त्रातारं रामभक्तिदम्। श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
श्रीमदानन्दभाष्यस्य प्रवक्तारं महामुनिम्। श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
विज्ञापक रहस्यानां रामोपासनतत्परम्। श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
भवाब्धितारकं रामतारकं सम्प्रदाय हि। श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
वर्जितं दुर्गणैर्निर्त्य सद्गुणानां महानिधिम्। श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
मायाजीवेशतत्त्वानां बोधकं बोधसागरम्। श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
विधाय पञ्चसंस्कारान् वैष्णवत्व विधायकम्। श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
मन्त्रार्थकोविदं सम्यङ् मन्त्राणामर्थबोधकम्। श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम्॥