Shri Tukaram Ashtakam

Ashtakam

1

ॐ श्री। श्रीशङ्कर। (अनुष्टप्) सन्तश्रेष्ठं परात्मानं अनन्यसदृशं गुरुम्। उग्रमन्तर्मृदुं वन्दे तुकारामं हरिप्रियम्॥

2

अम्बलेकुलसम्भूतं देहूग्रामविभूषणम्। विरक्तिवल्लभं वन्दे तुकारामं हरिप्रियम्॥

3

अभङ्गरचना यस्य सर्वसाधकदेशिका। जनोद्धर्त्री च तं वन्दे तुकारामं हरिप्रियम्॥

4

वैकुण्ठभवनं त्यक्त्वा लोककल्याण हेतवे। अवतीर्णं प्रभुं वन्दे तुकारामं हरिप्रियम्॥

5

प्रेममूर्तिं भक्तवर्यं सर्ववेदान्तरूपिणम्। दयालुं करुणं वन्दे तुकारामं हरिप्रियम्॥

6

सदाचारपथादर्शं अज्ञानान्धदिवाकरम्। प्रसन्नं पावनं वन्दे तुकारामं हरिप्रियम्॥

7

वेदनीतेः प्रणेतारं दीपं साधनवर्त्मनः। पाखण्डखण्डिनं वन्दे तुकारामं हरिप्रियम्॥

8

विठ्ठलाङ्घ्रिरतं नित्यं ``वरदानन्द'' दैवतम्। शान्तं कृपाकर वन्दे तुकारामं हरिप्रियम्॥