Totakashtakam
Totakashtakam
1
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम्
2
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम्
3
भवता जनता सुहिता भविता निजबोधविचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम्
4
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम्
5
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम्
6
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम्
7
गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम्
8
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम्