Shri Chandrashekharabharati Ashtakam
Ashtakam
1
शिष्यवृन्दसेवितं समस्तदोषवर्जितं भस्ममन्द्रराजितं पवित्रदण्डशोभितम्। नम्रलोकपूजितं सुराधिराजभावितं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
2
चन्द्रचूडपूजनप्रसक्तचित्तमानसं सत्त्वबोधनास्तहृद्यशिष्यवर्गसाध्वसम्। पूर्णचन्द्रबिम्बकान्तिकान्तवक्त्रसारसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
3
पादपद्मनम्रकामितार्थकल्पपादपं सत्प्रसक्तिशुद्धचित्तभूमितापसाधिपम्। विस्मितात्महृत्तमिस्रवारणे दिनाधिपं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
4
प्राक्तनातिभाग्यराशिलब्धशैवतेजसं शङ्करार्यसाम्प्रदायबोधनैकमानसम्। वेदशास्त्रभाष्यतत्त्ववेदिनं महौजसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
5
शृङ्गशैलधर्मपीठशोभमानमूर्तिकं शङ्करार्यशारदापदार्चकं सुबोधकम्। चक्रराजपूजकं किरीटचारुमस्तकं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
6
राजलक्ष्मलक्षितं समग्रराजपूजितं सर्वशास्त्रपण्डितं स्वधर्मरक्षणीरतम्। अक्षमाल्यमन्दितं पयोधिजाकटाक्षितं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
7
गद्यपद्यवाक्ष्रवाहदेवतार्यसन्निभं ज्ञानवार्धिकौस्तुभं सुकर्मनिष्ठवल्लभम्। दुष्टलोकदुर्लभं भवाब्धितारकं शुभं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥
8
खण्डितान्यदर्शनं समर्थितात्मदर्शनं पापतापमर्दनं सुपक्षसर्वसाधनम्। भूतजातवारणं निवासभूमिपावनं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये॥