Devidhamashtakam

Ashtakam

1

कस्मैचिदङ्घ्रिप्रणताखिलेष्टविश्राणनव्रीडितकौस्तुभाय। कामारिवामाङ्कजुषे किरीटकनच्छशाङ्काय नमोऽस्तु धाम्ने॥

2

कस्मैचिदुद्यद्रविकोटिभासे कल्पद्रुमाणामपि गर्वहर्त्रे। पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ताय शस्ताय नमोऽस्तु धाम्ने॥

3

कस्मैचिदाद्याय नमोऽस्तु धाम्ने बन्धूकपुष्पाभकलेवराय। कुलाद्रिवंशाम्बुधिकौस्तुभाय मत्तेभकुम्भस्तनबन्धुराय॥

4

कस्मैचिदाद्याय नमोऽस्तु धाम्ने भण्डासुराम्भोनिधिबाडवाय। भक्तौघसंरक्षणदक्षिणाय भाधीशनीकाशमुखाम्बुजाय॥

5

कस्मैचिदस्तु प्रणतिः कराम्बुजातम्रदिम्ना हसते प्रवालम्। कारुण्यजन्मावनये कापर्दिमोदाब्धिराकारजनीकराय॥

6

कल्याणशैलाधिपमध्यश‍ृङ्गनिकेतनाय प्रणतार्तिहन्त्रे। क्रव्यादवैरिप्रमुखेडिताय कुर्मः प्रणामं कुतुकाय शम्भौ॥

7

कचप्रभानिर्जितनीरदाय कस्तुरिकाकुङ्कुमलेपनाय। बिम्बाधराय श्रुतिबोधिताय बन्धापनोदाय नमोऽस्तु धाम्ने॥

8

कटाक्षकाङ्क्षिप्रवरामराय कालारिचित्ताम्बुजभास्कराय। पटीयसे पापसमूहभेदे नमोऽस्तु कस्मैचिदमोघधाम्ने॥