Shri Shivakamasundarya Ashtakam

Ashtakam

1

श्रीव्याघ्रपादमहर्षिप्रणीतं पुण्डरीकपुरमध्यवासिनीं नृत्तराजसहधर्मचारिणीम्। अद्रिराजतनयां दिने दिने चिन्तयामि शिवकामसुन्दरीम्॥

2

ब्रह्मविष्णुमुखरामरेडितां बाहुपद्मशुकवत्सशोभिताम्। बाहुलेयकलभाननात्मजां चिन्तयामि शिवकामसुन्दरीम्॥

3

वेदशीर्षविनुतात्मवैभवां वाञ्छितार्थफलदानतत्पराम्। व्याससूनुमुखतापसार्चितां चिन्तयामि शिवकामसुन्दरीम्॥

4

दिव्यरत्नमणिभूषणाम्बरां देवराजमहिलादिसंवृताम्। दानवारिसहजां दयानिधिं चिन्तयामि शिवकामसुन्दरीम्॥

5

षोडशार्णपरदेवतामुमां पञ्चबाणनिचयोद्भवेक्षणाम्। पारिजाततरुमूलमण्टपां चिन्तयामि शिवकामसुन्दरीम्॥

6

विश्वयोनिममलामनुत्तमां वाग्विलासफलदां विचक्षणाम्। वारिवाहसदृशालकाम्बरां चिन्तयामि शिवकामसुन्दरीम्॥

7

नन्दिकेशविनुतात्मवैभवां नाममन्त्रजपकृत्सुखप्रदाम्। नाशहीनपददां नटेश्वरीं चिन्तयामि शिवकामसुन्दरीम्॥

8

सोमसूर्यहुतभुग्विलोचनां सर्वमोहनकरीं सुधीडिताम्। सत्रिवर्गपरमात्मसौख्यदां चिन्तयामि शिवकामसुन्दरीम्॥

9

पुण्डरीकचरणर्षिणा कृतं स्तोत्रमेतदघहं पठन्ति ये। पुण्डरीकपुरनायिकाऽम्बिका यच्छतीष्टमखिलं महेश्वरी॥