Ganadhipashtakam
Ashtakam
1
ॐ श्रीगणेशाय नमः। श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः। अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं (धुनोति च मुदं) वितनोति च यः॥
2
सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम्। प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः॥
3
द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः। नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः॥
4
कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः। तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः॥
5
गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम्। करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः॥
6
५। दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः। प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा- घनकुचकुम्भगाढपरिरम्भणकण्टकितः। ६। अतुलबलोऽतिवेलमघवन्मतिदर्पहरः स्फुरदहितापकारिमहिमा वपुषीढविधुः। हरतु विनायकः स विनताशयकौतुकदः कुटिलतरद्विजिह्वकुलकल्पितखेदभरम्। ७॥
7
निजरदशूलपाशनवशालिशिरोरिगदा- कुवलयमातुलुङ्गकमलेक्षुशरासकरः। दधदथ शुण्डया मणिघटं दयितासहितो वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः॥
8
पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं कठिनशुचाकुठावलिकठोरकुठारवरम्। विमतपराभवोद्भटनिदाघनवीनघनं विमलवचोविलासकमलाकरबालरविम्॥