Mahabodhivandana Ashtakam
Ashtakam
1
ॐ नमो बुद्धाय। सौवर्णवर्णं कलविङ्कघोषं ब्रह्मस्वरं कारुणिकं सुसेव्यम्। नरोत्तमं शीलविशुद्धदेहं श्रीमन्महाबोधिमहं नमामि॥
2
शाक्येन्द्रवंशोद्भवदिव्यदेहं तृष्णाच्छिदं मारभिदं जिनेशम्। ज्ञानास्पदं क्लेशभिदं दिनेशं श्रीमन्महाबोधिमहं नमामि॥
3
समन्तभद्रं वरलक्षणाङ्गं सत्त्वार्थसिद्धिं सुकृतैः प्रणम्यम्। श्रेयस्करं सत्त्वहितैकचित्तं श्रीमन्महाबोधिमहं नमामि॥
4
धर्मोदकं यः कृपयोत्ससर्ज रागाग्निसन्दीपितपुद्गलानाम्। सुखाय सम्बोधिपयोमुचं तं श्रीमन्महाबोधिमहं नमामि॥
5
भवाब्धिनिस्तारणसेतुभूतं तथागतं तत्त्वविदं नृसिंहम्। त्रैलोक्यनाथं वरबोधिरत्नं श्रीमन्महाबोधिमहं नमामि॥
6
पदार्थसम्पादनसुव्रतस्थं मायासुतं मारभिदं जितारिम्। शास्तारमग्र्यं वरबोधिसत्त्वं श्रीमन्महाबोधिमहं नमामि॥
7
लोकेशनाथं हरिनाथनाथं भूतेशनाथं सुरनाथनाथम्। कृतान्तनाथं नरनाथनाथं श्रीमन्महाबोधिमहं नमामि॥
8
स बुद्धरूपः स हि धर्मरूपः स एव सङ्घोऽपि विनेयकानाम्। अभूच्छरण्यः शरणागतानां श्रीमन्महाबोधिमहं नमामि॥
9
इति श्रीमन्महाबोधिवन्दनाष्टकं सम्पूर्णम्॥