chaurAShTakam

Ashtakam

1

व्रजे प्रसिद्धं नवनीतचौरं गोपाङ्गनानां च दुकूलचौरम्। अनेकजन्मार्जितपापचौरं चौराग्रगण्यं पुरुषं नमामि॥

2

श्रीराधिकाया हृदयस्य चौरं नवाम्बुदश्यामलकान्तिचौरम्। पदाश्रितानां च समस्तचौरं चौराग्रगण्यं पुरुषं नमामि॥

3

अकिञ्चनीकृत्य पदाश्रितं यः करोति भिक्षुं पथि गेहहीनम्। केनाप्यहो भीषणचौर ईदृग्- दृष्टःश्रुतो वा न जगत्त्रयेऽपि॥

4

यदीय नामापि हरत्यशेषं गिरिप्रसारान् अपि पापराशीन्। आश्चर्यरूपो ननु चौर ईदृग् दृष्टः श्रुतो वा न मया कदापि॥

5

धनं च मानं च तथेन्द्रियाणि प्राणांश्च हृत्वा मम सर्वमेव। पलायसे कुत्र धृतोऽद्य चौर त्वं भक्तिदाम्नासि मया निरुद्धः॥

6

छिनत्सि घोरं यमपाशबन्धं भिनत्सि भीमं भवपाशबन्धम्। छिनत्सि सर्वस्य समस्तबन्धं नैवात्मनो भक्तकृतं तु बन्धम्॥

7

मन्मानसे तामसराशिघोरे कारागृहे दुःखमये निबद्धः। लभस्व हे चौर! हरे! चिराय स्वचौर्यदोषोचितमेव दण्डम्॥

8

कारागृहे वस सदा हृदये मदीये मद्भक्तिपाशदृढबन्धननिश्चलः सन्। त्वां कृष्ण हे! प्रलयकोटिशतान्तरेऽपि सर्वस्वचौर! हृदयान् न हि मोचयामि॥

9

इति श्रीबिल्वमङ्गलठाकूरविरचितं चौराष्टकं सम्पूर्णम्। चौरग्रगण्य पुरुषाष्टकम्॥