Bhavaprakasha Ashtakam
Ashtakam
1
विभुश्च सत्स्वरूपकश्चितिः सुखात्मकोऽजनि रमूर्तिनामरूपकोथ तत्त्वमर्थवाहिकः। विधीश्वरो हरीश्वरो रमाशिवाशिवेश्वरो (हरीश्वरः एवं इन्द्रस्वामी) यथा फणी गुणे तथास्य विश्वकल्पनाश्रयः॥
2
स एव धार्य्य शन्तनुं सकङ्घनोपमं शुभं सुपीतपट्टवाससं कलापिपिच्छमस्तकम्। कृपाकटाक्षसंयुतं सुवंशवेत्रहस्तकं ममास्तु नेत्रमार्गगः कृपाकरः सदा जने॥
3
यथा ध्रुवं च हस्तिनं ददौ स्वकीयदर्शनं तथैव मेऽस्तु नेत्रगः कृपात आत्मदो हरिः। त्वमेव भक्तवत्सलो यदा वदाम्यहं तदा क्षुधार्त्त भोजनेऽकृते न कोपि वक्ति पालकः॥
4
मनश्च खानि मे सदा बहिर्भ्रमन्त्यनात्मनि (खानि एवं इन्द्रियाणि) ममैव नास्ति साकृतिस्तदेव कर्म तावकम्। पराञ्चि खानि माधवश्वकार नैगमी श्रुति- (पराञ्चि झानि एवं बहिरिन्द्रियाणि) स्त्वदीयकर्मवामता तवापराधता भवेत्॥
5
अनेकजन्मनाट्यता धृतिर्मया तवाग्रतः कृता प्रसन्नतां गतस्तदा त्वदीयदर्शनम्। वरं ब्रवीम्यहं प्रभो यदा न रोचते तदा वदेदृशीं न धार्यतां फलेन वर्जितां मृषा॥
6
तवापरोक्षता हि या ममास्ति मूलतः क्षति- स्तदेव वाञ्छता मया न दर्शनं ददासि मे। दया न लिप्यते कदापि मानसे हते प्रभो उपासनां त्वदीयकां करिष्यतीह को नरः॥
7
यदि श्रुतिः प्रमाणिका महेशजीवलक्ष्ययोः सदैकता तदा विभो त्वदीयदर्शनं भवेत्। ऋतं द्वितीयतामतिस्तयोर्भयावहा यदि मदीयदृश्यतां व्रजेत्परावरेश्वरेश्वरः॥
8
निरञ्जनं निरामयं निरङ्कुशं च निर्गुणं स्वतो भुजिष्यवल्लभं स्वभक्तनिर्भयप्रदम्। (वल्लभं एवं भृत्य) सदाप्तकायसाक्षिणं नमामि नन्दनन्दनं नतिं तदीयकां विना ममास्ति नेतरद्बलम्॥