Shri Venugopalasvaminah Mangalashtakam
Ashtakam
1
ॐ गं गणपतये नमः। ॐ श्री वागीश्वर्यै नमः॥
2
अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम्। दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो! धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
3
वेणुभूषितहस्ताय वेणुगानप्रियात्मने। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
4
पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
5
भास्वत्कौस्तुभवत्साय भक्ताभीष्टप्रदायिने। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
6
धृतचक्रगदायास्मै हृतकंसादिरक्षसे। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
7
आदिमध्यान्तहीनाय त्रिगुणात्मकरूपिणे। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
8
परब्रह्मस्वरूपाय सच्चिदानन्दरूपिणे। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥
9
विश्वनाथनुतायास्मै विश्वरक्षणहेतवे। धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम्॥