Shiva Ashtakam

Ashtakam

1

नमो नमस्ते त्रिदशेश्वराय भूतादिनाथाय मृडाय नित्यम्। गङ्गातरङ्गोत्थितबालचन्द्र- चूडाय गौरीनयनोत्सवाय॥

2

सुतप्तचामीकरचन्द्रनील- पद्मप्रवालाम्बुदकान्तिवस्त्रैः। सुनृत्यरङ्गेष्टवरप्रदाय कैवल्यनाथाय वृषध्वजाय॥

3

सुधांशुसूर्याग्निविलोचनेन तमोभिदे ते जगतः शिवाय। सहस्रशुभ्रांशुसहस्ररश्मि- सहस्रसञ्जित्त्वरतेजसेऽस्तु॥

4

नागेशरत्नोज्ज्वलविग्रहाय शार्दूलचर्मांशुकदिव्यतेजसे। सहस्रपत्रोपरि संस्थिताय वराङ्गदामुक्तभुजद्वयाय॥

5

सुनूपुरारञ्जितपादपद्म- क्षरत्सुधाभृत्यसुखप्रदाय। विचित्ररत्नौघविभूषिताय प्रेमानमेवाद्य हरौ विधेहि॥

6

श्रीराम गोविन्द मुकुन्द शौरे श्रीकृष्ण नारायण वासुदेव। इत्यादिनामामृतपानमत्त- भृङ्गाधिपायाखिलदुःखहन्त्रे॥

7

श्रीनारदाद्यैः सततं सुगोप्य- जिज्ञासितायाशु वरप्रदाय। तेभ्यो हरेर्भक्तिसुखप्रदाय शिवाय सर्वगुरवे नमो नमः॥

8

श्रीगौरीनेत्रोत्सवमङ्गलाय तत्प्राणनाथाय रसप्रदाय। सदा समुत्कण्ठगोविन्दलीला- गानप्रवीणाय नमोऽस्तु तुभ्यम्॥

9

एतत् शिवस्याष्टकमद्भुतं महत् श‍ृण्वन् हरिप्रेम लभेत शीघ्रम्। ज्ञानञ्च विज्ञानमपूर्ववैभवं यो भावपूर्णः परमं समादरम्॥

10

इति शिवाष्टकं सम्पूर्णम् ।॥