Uma Ashtakam

Ashtakam

1

ॐ ॐ नम उमा भगवत्यै। चामरं दक्षिणे हस्ते कमलं चोत्तरे तथा। रक्ताम्बरा दयामूर्तिः प्रसन्नोमास्तु सर्वदा॥

2

सुवर्णसदृशीं गौरीं भुजद्वय-समन्विताम्। नीलपद्मं हि वामेन पाणिना बिभ्रतीं सदा॥

3

दिवाकर-शतद्युतिं जननीं भुक्तिमुक्तिदाम। सुमुखीं वरदां देवी सिंहस्थां परिपूजयेत्॥

4

भक्ताय शिवरामाय स्नुषा ब्राहस्य सन्निधौ। स्वप्ने स्वं दर्शयामास रूपं वैराग्यदं शुभम्॥

5

काकरूपा ततो देवी भक्तानुग्रहकाम्यया ओङ्काररूपसंभूता पञ्चधाऽभयदायिनी॥

6

प्रादुर्भूता नदीरूपा भक्तानां फलदायिनी। ओङ्काररूपसदृशी पञ्चधा दिव्य-कुण्डजा॥

7

भक्तः प्रभावयुक्तायाः स्वयमानन्दनामकः। देव्या भवनं निर्मातुं शिलान्यासं चकार सः॥

8

ओङ्काररूपेण विराजमाना सा पूजकानां वरदायिनी च। रक्ताम्बरा दिव्यवपुः उमाख्या सा ब्रह्मरूपा विजयस्य दात्री॥