Abhaya Ashtakam
Ashtakam
1
भो ब्रह्मन् रमणेश ! तावकपदाम्भोजद्वये साम्प्रतं विज्ञाप्यं रहसीदमेकमधुना श्रोतव्यमित्यर्थये। अज्ञातं भुवि नाणुमात्रमपि ते सर्वज्ञचूडामणे- र्वक्तव्यं त्वननूदितं ननु नृणां मर्माणि निष्कृन्तति॥
2
भीत्या त्वत्पदपङ्कजे श्रितवतां क्लेशप्रहाणैषिणा- मत्रत्यैरुपचीयमानमनिशं प्रच्छन्नविद्वेषिभिः। दुर्वारप्रसरं भयं रमण ! नः क्षोभप्रदं चेतसः स्वामिन्नाशयमूलतोऽथ वदवाऽभीतिप्रतिज्ञावचः॥
3
संसाराह्वयनाटकस्य च भवान् सत्सूत्रधारायित- स्स्वामिन् मृत्युभिया मृकण्डुसुतवद्भर्गाकृतिं तावकीम्। मूर्तिं भव्यधियो वयं शरणमित्याश्रित्य सेवामहे किं वास्मास्वपि ते विहीनकरुणं युक्तं भयोत्पादनम्॥
4
वेदान्ते क्वचिदाश्रुतं भगवतो भीतिप्रदत्वन्तु य- त्तन्माया परिकल्पितार्थविषयं तत्त्वार्थतां नाश्नुते। नोचेद्धन्त ! विजानतां तव कृपालेशाद्विमुक्तात्मनां नूनं नैव घटेत भीतिरहितावस्थत्वमव्याहतम्॥
5
मायाकल्पितनामरूपकलना यावन्नृणां वर्तते तावत्तान्समुपैति भीतिरिति हि प्रोवाच वाग्वैदिकी। अद्वैते परिनिष्ठितस्य महसि स्वे ते गतान्दृक्पथं द्वैतान्नः कथमेतु भीतिरथवा ताः किन्निरर्था गिरः॥
6
कल्याणानि तनोतु कोऽपि गुरुराट् कैवल्यदानव्रती व्यापन्नाभयसत्रदीक्षित इति ख्यातः कृपालुः क्षमी। सर्वानर्थनिदानमोहकलिलोद्भूतं भयं मानसं किञ्च श्रीरमणः प्रमार्ष्टु भगवानित्येव नः प्रार्थना॥
7
रमणभगवत्पादम्भोजे सदा रमतां मनो रमणभगवद्वक्त्राम्भोजे मनः पिबतान्मधु। रमणभगवन्मूर्तिं दिव्यां मुहुस्स्मरतान्मनो रमणभगवत्पादाचार्यो ममास्तु परायणम्॥
8
शोणाद्रीश्वरसञ्चराय यमिने मायागृहीतात्मने स्वात्मस्थाय कृपारसार्द्रमनसे शान्ताय सन्यासिने। मग्नानां भवसागरे भुवि नृणामानन्दमुत्सर्जते तस्मै श्रीरमणाय बोधगुरवे तन्म स्त्रिसन्ध्यं नमः॥
9
ध्यायेत् पद्मासनस्थं प्रमुदितवदनं दक्षिणामूर्तिरूपं कौपीनालङ्कृताङ्गं हृदि किमपि महस्सन्ततं चिन्तयन्तम्। भासा स्वेनैव भान्तं गुरुकरुणदृशं साधुसंसेविताङ्घ्रिं सर्वश्रेयोवदान्यं रमणमुनिवरं शोणशैलेशरूपम्॥
10
कृषीष्ट भगवानिष्टं पठतामभयाष्टकम्। विष्टभ्य भुवनं कृत्स्नं य ईष्टे रमणो गुरुः॥