Shri Bhadrakali Ashtakam
Ashtakam
1
घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा। भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
2
मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम्। पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
3
विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ। तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
4
या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ। कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
5
सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान् राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैस्सार्थमन्यांश्च दैत्यान्। वक्त्रे निक्षिप्य दष्ट्वा गुरुतरदशनैरापपौ शोणितौघं सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
6
स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैस्संस्तुता या सङ्ख्याहीनैस्समेतं त्रिदशरिपुगणैस्स्यन्दनेभाश्वयुक्तैः। युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
7
शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत् भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा। तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली॥
8
या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री वणी निद्रा च मायामनसिजदयिता घोररूपातिसौम्या। चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली॥
9
भद्रकाल्यष्टकं जप्यं शत्रुसंक्षयकाङ्क्षिणा। स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम्॥