Potalaka Ashtakam

Ashtakam

1

जय सिद्धसुरासुरलोकगुरुं कमलासनसंस्थितपादयुगम्। दशपारमितादिकपद्मधरं प्रणमामि सदा वरकारुणिकम्॥

2

बहुकोटिनराधिपलब्धवरं जय सुस्थितसुस्थितनाथमुनिम्। भवसागरपारगताधिकरं शरणागतसत्त्वहितार्थकरम्॥

3

कमलासनचारुसुरूपधरममिताभतथागतमौलिधरम्। कमलोज्ज्वलभूषितगात्रवरं नवभास्करशोभनदीप्तिकरम्॥

4

मृदुताम्रनखाङ्गुलिशोभमुखं शशिबिम्बसमप्रभसौम्यमुखम्। षडभिज्ञगुणाकरवन्द्यतनुं वरसुस्थितनूपुरहारयुतम्॥

5

मणिकुण्डलमण्डितगण्डयुगं घनगर्जिततुल्यगभीररुतम्। गिरिगह्वरद्योतनिवासकृतं वृषवाहनहंसमृगायुशतम्॥

6

ऋषिदेवगणाधिपसंस्तुतिकं जिनरूपधरात्मकबोधिपरम्। द्विपदोत्तमनाथसुराधिपतिं बहुसत्त्वविमोचनमुक्तिकरम्॥

7

ध्वजछत्रसुशोभितवामकरं मलयागिरिचन्दनधूपरतिम्। कमलोत्पलपाटलिदामधरं प्रणमाम्यथ पाटलिवृद्धिकरम्॥

8

ज्वररोगविवर्जितकुष्ठहरं बहुबोधिमनाघनभद्रकरम्। नवदुर्गतिनाशनमार्गप्रदं करुणातथताद्वयविश्वपतिम्॥

9

इति श्रीआर्यावलोकितेश्वरस्य पोतलकाष्टकं सम्पूर्णम्॥