Shri Viththaleshashtakam

Ashtakam

1

रघुनाथकृतं श्रीगणेशाय नमः। कुरुसदसि कृताभूद्द्रौपदीवस्त्रशेषा सकलनृपवरेन्द्रा यत्र वक्तुं न शक्ताः। हरिचरणरताङ्गी येन तत्रात्मधीरा स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

2

प्रथमजननपापप्राप्तसम्प्रेतदेहौ समय इह ममास्मिन्कृष्णभक्त्या समेतौ। गलितपतितवेषावुद्धतौ येन सद्यः स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

3

कमलदलसुनेत्रेणैव भूतेशमाया- ततिभिरिव हि येन भ्रामितः सर्वलोकः। अखिलजगति सर्वस्वीयभक्ताः कृतार्थाः स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

4

सकलयदुकुलेन्द्रो येन कंसो हतोऽभूत् जननसमयपूर्वं देवकीशूरयोश्च। परिहृतमपि दुःखं यामिका मोहिताश्च स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

5

तपनदुहितुरन्तः कालियो मारितः सन् अलिगणसुहितेऽस्मिंस्तत्फणे येन नृत्यम्। कृतमपि च तदम्भो लम्भितं निर्विषत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

6

कपटकृतशरीरा पूतना प्रापिताऽभ्रं व्रजपतिगृहसुप्तावेकपादेन येन। शकट असुरवेषः प्रेषितः स्थाननाशं स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

7

पदनतियुतहस्ता तोषिता येन कुन्ती ह्यसुरकुलसमूहा हिंसिता वीर्यवन्तः। अखिलभुवनभारः प्रेषितः संलघुत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

8

अखिलसुरकुलेन्द्रस्यैव येनाभिमानो गिरिवरधरणेन क्षीणतां प्रापितश्च। जलधरभवधाराः संहृता ग्रावयुक्ताः स भवतु मम भूत्यै विठ्ठलेशः सहायः॥

9

विट्ठलेशाष्टकमिदं प्रातरुत्थाय यः पठेत्। भक्त्या नत्वा च सुमनाः स याति परमां गतिम्॥