Shri Shanibadha Vimochana Shabarishvara Ashtakam
Ashtakam
1
शनिबाधाविनाशाय घोरसन्तापहारिणे। कानकालयवासाय भूतनाथाय ते नमः॥
2
दारिद्र्यजातान्रोगऽतीन्बुद्धिमान्द्यादि सङ्कटान्। क्षिप्रं नाशाय हे देवा शनिबाधाविनाशक॥
3
भूतबाधामहा दुःखमध्यवर्तिनमीशमाम्। पालय त्वं महाबाहो सर्वदुःखविनाशक॥
4
अवाच्यानि महादुःखान्यमेयानि निरन्तरम्। सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो॥
5
मायामोहान्यनन्तानि सर्वाणि करुणाकर। दूरीकुरु सदा भक्तहृदयानन्ददायक॥
6
अनेकजन्म सम्भूतान्तापपापान्गुहेश्वर। चूर्णीकुरु कृपासिन्धोसिन्धुजाकान्त सन्तते॥
7
उन्मत्तोत्भूत सन्तापकान् कृपान् महेश्वर। हस्तावलम्बं दत्वं मां रक्ष रक्ष शनैश्चर॥
8
देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम्। देहि मे परमानन्दं देव देव जगत्पते॥