Shri Janaki Jivana Ashtakam

Ashtakam

1

आलोक्य यस्यातिललामलीलां सद्भाग्यभाजौ पितरौ कृतार्थी। तमर्भकं दर्पकदर्पचौरं श्रीजानकीजीवनमानतोऽस्मि॥

2

श्रुत्वैव यो भूपतिमात्तवाचं वनं गतस्तेन न नोदितोऽपि। तं लीलयाह्लादविषादशून्यं श्रीजानकीजीवनमानतोऽस्मि॥

3

जटायुषो दीनदशां विलोक्य प्रियावियोगप्रभवं च शोकम्। यो वै विसस्मारतमार्द्रचित्तं श्रीजानकीजीवनमानतोऽस्मि॥

4

यो वालिना ध्वस्तबलं सुकण्ठं न्ययोजयद्राजपदे कपीनाम्। तं स्वीयसन्तापसुतप्तचित्तं श्रीजानकीजीवनमानतोऽस्मि॥

5

यद्ध्याननिर्धूतवियोगवह्निर्विदेहबाला विबुधारिवन्याम्। प्राणान्दधे प्राणमयं प्रभुं तं श्रीजानकीजीवनमानतोऽस्मि॥

6

यस्यातिवीर्याम्बुधिवीचिराजौ वंश्यैरहो वैश्रवणो विलीनः। तं वैरिविध्वंसनशीललीलं श्रीजानकीजीवनमानतोऽस्मि॥

7

यद्रूपराकेशमयूखमालानुरञ्जिता राजरमापि रेजे। तं राघवेन्द्रं विबुधेन्द्रवन्द्यं श्रीजानकीजीवनमानतोऽस्मि॥

8

एवं कृता येन विचित्रलीला मायामनुष्येण नृपच्छलेन। तं वै मरालं मुनिमानसानां श्रीजानकीजीवनमानतोऽस्मि॥