Radhakrishnashtakam

Ashtakam

1

वृन्दारण्ये सदा कुञ्जे यमुनापुलिने प्रिये। राधाकृष्णं सखीसेव्यं विहरन्तं नमाम्यहम्॥

2

कदम्बमञ्जुकुञ्जेषु सखीडयं श्रीप्रियाप्रियम्। कोकिलाकूजितेष्वर्च्यं नमामि नितरां हरिम्॥

3

वेणुसुवादने दक्षं कृष्णं राधाप्रियायुतम्। सौन्दर्य सारसर्वस्वं नौमि कारुण्यसागरम्॥

4

कदम्बमालया रम्यं राधासर्वेश्वरं प्रभुम्। पीतकौशेयशोभाढ्य प्रणमामि सखीश्वरम्॥

5

श्रीधामविपिने कुञ्जे निकुञ्जे नित्यशोभितम्। राधाकृष्णं रसाधारं वन्दे वंशीविभूषितम्॥

6

लावण्यसमधिष्ठानं विधीशेन्द्रादिवन्दितम्। रसिकैः सततं सेव्यं राधाकृष्णं भजेऽनिशम्॥

7

निम्बार्कहृदयाराध्यं कृपाधाम दयार्णवम्। प्रपन्नतापहर्तारं वन्दे श्रीरासशेखरम्॥

8

वरेण्यं प्रत्यहं प्रात-र्युगलं राधिकाप्रियम्। स्वस्थेन मनसा नित्यं स्मरामि विश्वकाररणम्॥

9

राधाकृष्णाष्टकं स्तोत्रं युग्मभक्तिप्रदायकम्। राधासर्वेश्वराद्येन शरणान्तेन निर्मितम्॥