Shri Minakshi Ashtakam
Ashtakam
1
श्रीमीनाक्ष्यष्टकम्॥
2
माधुर्ये महिमे महागिरिसुते मल्लादि संहारिणि मूलाधारकृते महामरकते शोभे महासुन्दरि। मातङ्गि महिमे महासुरवधे मन्त्रोत्तमे माधवि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
3
नानारत्नविभूषणे नवगणे शोभे महासुन्तरि नित्यानन्दवरे निरूपणगुणे निम्नोन्नते पङ्कजे। नाट्ये नाटकवेषधारिणि शिवे नादे कालनर्तकि(?) मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
4
कामक्रोधनिवारणे करुणालये कात्यायनि सन्मते कारुण्याकृतिके किरातवरदे कं गं क बीजाङ्कुरे। कामार्थं तव सिद्धिहेतुकमिदं भक्त्या भवत्सन्निधौ मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
5
षट्चक्रान्तगते षडाननवरे षड्बीजरक्षाङ्कुरे षोडाधारकले षडक्षरि शिवे क्षोणी महाक्षीयते। क्षन्तव्यं जननि क्षमा रम शिवे क्षीराब्धि मध्यान्तरे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
6
वामे नीलदलाक्षि पुष्परसिके बाले महाकुङ्कुमे अन्ये पाणिवराब्जभक्तजननि नित्यं परश्रेयसि। बाले बन्धुवराङ्गिणि बहुविधे भूचक्रसञ्चारिणि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
7
रागस्तोत्रविचारवेदविभवे रम्ये रतोल्लासिनि राजीवेक्षणि राज राङ्गणरणे राजाधिराजेश्वरि। राज्ञि राजससत्त्वतामसगुणे राधे रमासोदरि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
8
सारास्ये सरसीरुहस्य जननि साम्राज्यदानेक्षणि साम्यासाम्य चाष्टकलासुखवने सान्दीपनीसेविते। सत्यानन्दसुधे च सुन्दरफले स्वाधिष्ठचक्रान्तरे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥
9
कर्पूरारुणकुङ्कुमार्चितपदे क्षीराब्धिशोभे शिवे गायत्रि करुणाकटाक्षविनुते कन्दर्पकान्तिप्रदे। कल्याणाष्टसुरार्चिते सुकविते कारुण्यवारान्निधे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके॥