ga~NgAShTakam 2 by Kalidasa

Ashtakam

1

श्रीगणेशाय नमः॥

2

कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डा कति। किं च त्वं च कति त्रिलोकजननित्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत्॥

3

देवि त्वत्पुलिनाङ्गणे स्थितिजुषां निर्मानिनां ज्ञानिनां स्वल्पाहारनिबद्धशुद्धवपुषां तार्णं गृहं श्रेयसे। नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो भूपतेः प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः॥

4

तत्तत्तीर्थगतैः कदर्थनशतैः किं तैरनर्थाश्रितै- र्ज्योतिष्टोममुखैः किमीशविमुखैर्यज्ञैरवज्ञाद्दतै। सूते केशववासवादिविबुधागाराभिरामां श्रियं गङ्गे देवि भवत्तटे यदि कुटीवासः प्रयासं विना॥

5

गङ्गातीरमुपेत्य शीतलशिलामालम्ब्य हेमाचलीं यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः। ते श‍ृण्वन्ति सुपर्वपर्वतशिलासिंहासनाध्यासनाः सङ्गीतागमशुद्धसिद्धरमणीमंजीरधीरध्वनिम्॥

6

दूरं गच्छ सकच्छगं च भवतो नालोकयामो मुखं रे पाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम्। सद्यः प्रोद्यतमन्दमारुतरजःप्राप्ता कपोलस्थले गङ्गाम्भःकणिका विमुक्तगणिकासङ्गाय सम्भाव्यते॥

7

विष्णोः सङ्गतिकारिणी हरजटाजूटाटवीचारिणी प्रायश्चित्तनिवारिणी जलकणैः पुण्यौधविस्तारिणी। भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी श्रेयः स्वर्गविहारिणी विजयते गङ्गा मनोहारिणी॥

8

वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं चाण्डालं तरलं निपीतगरलं दोषाविलं चाखिलम्। कुम्भीपाकगतं तमन्तककरादाकृष्य कस्तारयेन्- मातर्जह्नुनरेन्द्रनन्दिनि तव स्वल्पोदबिन्दुं विना॥

9

श्लेषमश्लेषणयानलेऽमृतबिले शाकाकुले व्याकुले कण्ठे घर्घरघोषनादमलिने काये च सम्मीलति। यां ध्यायन्न्पि भारभङ्गुरतरां प्राप्नोति मुक्तिं नरः स्नातुश्वेतसि जाह्न्वी निवसतां संसारसन्तापहृत्॥

10

इति श्रीमत्कालिदासविरचितं गङ्गाष्टकस्तोत्रं सम्पूर्णम्॥