Shri Vrajanavinayuvadvandvashtakam

Ashtakam

1

श्रीराधाकृष्णौ जयतः। अदुर्विधविदग्धतास्पदविमुग्धवेशश्रियो- रमन्दशिखिकन्धराकनकनिन्दिवासस्त्विषोः। स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा निभाङ्गमहसोर्भजे व्रजनवीनयूनोर्युगम्॥

2

समृद्धविधुमाधुरीविधुरताविधानोद्धुरै- र्नवाम्बुरुहरम्यतामदविडम्बनारम्भिभिः। विलिम्पदिव कर्णकावलिसहोदरैर्दिक्तटी मुखद्युतिभरैर्भजे व्रजनवीनयूनोर्युगम्॥

3

विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा- गखर्वमदनाङ्कुशप्रकरविब्र्हमैरङ्कितम्। मदोद्धुरमिवोभयोर्मिथुनमुल्लसद्वल्लरी गृहोत्सवरतं भजे व्रजनवीनयूनोर्युगम्॥

4

घनप्रणयनिर्झरप्रसरलब्धपूर्तेर्मनो ह्रदस्य परिवाहितामनुसरद्भिरस्रैः प्लुतम्। स्फुरत्तनुरुहाङ्कुरैर्नवकदम्बजृम्भश्रियं व्रजत्तदनिशं भजे व्रजनवीनयूनोर्युगम्॥

5

अनङ्गरणविभ्रमे किमपि विभ्रदाचार्यकं मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम्। जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो- र्मिथो विजयितां भजे व्रजनवीनयूनोर्युगम्॥

6

अदृष्टचरचातुरीचलचरित्रचित्रायितैः सह प्रणयिभिर्जनैर्विहरमानयोः कानने। परस्परमनोमृगं श्रवणचारुणा चर्चरी चयेन रजयद् भजे व्रजनवीनयूनोर्युगम्॥

7

मरन्दभरमन्दिरप्रतिनवारविन्दावलि सुगन्धिनि विहारयोर्जलविहारविस्फूर्जितैः। तपे सरसि वल्लभे सलिलवाद्यविद्याविधौ विदग्धभुजयोर्भजे व्रजनवीनयूनोर्युगम्॥

8

मृषाविजयकाशिभिः प्रथितच्तुरीराशीभि- र्ग्लहस्य हरणं हठात् प्रकटयद्भिरुच्चैर्गिरा। तदक्षकलिदक्षयोः कलितपक्षयोः साक्षिभिः कुलैः स्वसुहृदां भजे व्रजनवीनयूनोर्युगम्॥

9

इदं वलिततुष्टयः परिपठन्ति पद्याष्टकं द्वयोर्गुणविकाशि ये व्रजनवीनयूनोर्जनाः। मुहुर्नवनवोदयां प्रणयमाधुरीमेतयो- रवाप्य निवसन्ति ते पदसरोजयुग्मान्तिके॥

10

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवीनयुवद्वन्द्वाष्टकं सम्पूर्णम् ।॥