Shri Gokulanandagovindadevashtakam

Ashtakam

1

कोटिकन्दर्पसन्दर्पविध्वंसन स्वीयरूपामृताप्लावितक्ष्मातल। भक्तलोकेक्षणं सक्षणं तर्षयन् गोकुलानन्द गोविन्द तुभ्यं नामः॥

2

यस्य सौरभ्यसौलभ्यभाग्गोपिका भाग्यलेशाय लक्ष्म्यापि तप्तं तपः। निन्दितेन्दीवरश्रीक तस्मै मुहु- र्गोकुलानन्द गोविन्द तुभ्यं नामः॥

3

वंशिकाकण्ठयोर्यः स्वरस्ते स चेत् तालरागादिमान् श्रुत्यनुभ्राजितः। का सुधा ब्रह्म किं का नु वैकुण्ठमु- द्गोकुलानन्द गोविन्द तुभ्यं नामः॥

4

यत्पदस्पर्शमाधुर्यमज्जत्कुचा धन्यतां यान्ति गोप्यो रमातोऽप्यलम्। यद्यशो दुन्दुभेर्घोषणा सर्वजि- द्गोकुलानन्द गोविन्द तुभ्यं नामः॥

5

यस्य फेलालवास्वादने पात्रतां ब्रह्मरुद्रादयो यान्ति नैवान्यके। आधरं शीधुमेतेऽपि विन्दन्ति नो गोकुलानन्द गोविन्द तुभ्यं नामः॥

6

यस्य लीलामृतं सवथाकर्षकं ब्रह्मसौख्यादपि स्वादु सर्वे जगुः। तत्प्रमाणं स्वयं व्याससूनुः शुको गोकुलानन्द गोविन्द तुभ्यं नामः॥

7

यत् षडैश्वर्यमप्यार्यभक्तात्मनि ध्यातमुद्यच्चमत्कारमानन्दयेत्। नाथ तस्मै रसाम्भोधये कोटिशो गोकुलानन्द गोविन्द तुभ्यं नामः॥

8

गोकुलानन्दगोविन्ददेवाष्टकं यः पठेन् नित्यमुत्कण्ठितस्त्वत्पदोः। प्रेमसेवाप्तये सोऽचिरान्माधुरी सिन्धुमज्जन्मना वाञ्छितं विन्दताम्॥

9

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोकुलनन्दगोविन्ददेवाष्टकं सम्पूर्णम् ।॥