Shri Ashtaprasa Ashtakam
Ashtakam
1
शक्राद्यामरसन्नुताङ्घ्रियुगलं चक्रायुधाद्यर्चितं नक्रग्रस्तशिशुप्रदानचतुरं शुक्राविसोमाक्षिकम्। विक्रान्तं श्रुतिमस्तकेषु चरणाब्जाक्रान्तयम्याशयं चक्रारिष्टरसाशताङ्गसुमहच्चक्रं ? महेशं भजे॥
2
अष्टात्मानमपारसंसृतिदवप्लुष्टात्मनां शान्तिदं शिष्टान्विष्टपदारविन्दमुमया श्लिष्टाङ्गमत्याशया। दिष्टान्तानभियुक्तमौनितनयं कष्टापहं सेवता- मिष्टं सज्जनसंहतेर्विधिसमादिष्टात्मकाङ्घ्रिं भजे॥
3
शृङ्गारामितलोलमद्रिसुतया सङ्गं वृषे गामिनं गङ्गाचन्द्रजटाविराजिमकुटं पिङ्गाननातिप्रियम्। अङ्गासङ्गितमन्मथा बहुकृपापाङ्गं त्रिशूलायुधं लिङ्गार्चापरदत्तसर्वपुरुषार्थं गेयवीर्यं भजे॥
4
कुण्ठं भक्तजनाहितस्य परमोत्कण्ठास्पदं स्वस्त्रियः कण्ठालङ्कृतनागमाशुगि(जि)तवैकुण्ठाधिपं शङ्करम्। कण्ठस्थापितकालकूटविषमुत्कण्ठादिषट्कापहं कुण्ठात्मानभिगम्यमानचरितं कण्ठातिनीलं भजे॥
5
अण्डानामखिलस्य नाथमुडुराट्कुण्डं कृपासागरं शुण्डावक्त्रमुखोग्रपाण्ड्यजनकं दण्डायुधारिं शिवम्। काण्डाकारितवेदफेरु(रूप)ममरोद्दण्डं पुरद्वेषिणं चण्डीप्राणपतिं सुधाशनपतेः शुण्डावदर्च्यं भजे॥
6
हिक्कामुख्यगदाधितापपटलीधिक्कारिदिव्याह्वयं ढक्कादुन्दुभिकाहलाद्यविरमसृक्काबृहत्कुक्षिखं (?)। ढक्कामद्रुहमीशितारमतसी सृक्कालिमग्रीवमुं त्वक्कायच्छदमीदृशं खनिजभान्यक्कारिदेहं भजे (?)॥
7
भर्गाख्यं परमेश्वरं त्रिजगतां सर्गादिहेतुं मृडं दुर्गाधीशमनन्तमेकमजरं दुर्गापहं ध्यायताम्। गर्गागस्त्यवसिष्ठमुख्यसुतपद्वर्गान्तरङ्गालयं स्वर्गानोकहमर्थिनां पशुपतिं स्वर्गामिवन्द्यं भजे॥
8
वित्ताधीशसखं विशालनिटिलं सत्तामयं शाश्वतं चित्तादत्म्यददिव्यनामविभवं चित्ताधिजाताहितम्। मत्तानेकपगामिनं प्रणवसंवित्तास्वरूपं भवं मत्ताहीनसुबोधगोचरमलं मत्तापहाङ्घ्रिं भजे॥
9
अष्टप्रासाष्टकं शम्भोरिष्टं भक्त्या पठन्ति ये। इष्टा भवन्ति श्रीगन्धपुष्टिकाननवासिनः॥
10
इति श्रीअष्टप्रासाष्टकं सम्पूर्णम्॥