Shri Mangalanayika Ashtakam

Ashtakam

1

अम्बामम्बुजधारिणीं सुरनुतामर्धेन्दुभूषोज्ज्वलां आधारादि समस्तपीठनिलयामम्भोजमध्यस्थिताम्। नित्यं सज्जनवन्द्यमानचरणां नीलालकश्रोणितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

2

आद्यामागमशास्त्ररत्नविनुतामार्यां परां देवतां आनन्दाम्बुधिवासिनीं परशिवामानन्दपूर्णाननाम्। आब्रह्मादि पिपीलिकान्तजननीमाखण्डालाद्यर्चितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

3

इन्द्राण्यादि समस्तशक्तिसहितामिन्दीवरश्यामलां इन्द्रोपेन्द्रवरप्रदामिननुतामिष्टार्थसिद्धिप्रदाम्। ईकाराक्षररूपिणीं गिरिसुतामीकारवर्णात्मिकां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

4

उद्यद्भानुसहस्रकोटिसदृशीं केयूरहारोज्ज्वलां ऊर्ध्वस्वन्मणिमेखलां त्रिनयनामूष्मापहारोज्ज्वलाम्। ऊहापोहविवेकवाद्यनिलयामूढ्याणपीठस्थितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

5

ऋक्षाधीशकलान्वितामृतुनुतामृद्‍ध्यादिसंसेवितां नृणानां पापविमोचिनीं शुभकरीं वृत्रारिसंसेविताम्। लिङ्गाराधनतत्परां भयहारां क्लीङ्कारपीठस्थितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

6

एनःकूटविनाशिनीं विधिनुतामेणाङ्कचूडप्रियां एलाचम्पकपुष्पगन्धिचिकुरामेकातपत्रोज्वलाम्। ऐकाराम्बुजपीठमध्यनिलयामैन्द्रादिलोकप्रदां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

7

ओघैरप्सरसां सदा परिवृतामोघत्रयाराधितां ओजोवर्द्धनतत्परां शिवपरामोङ्कारमन्त्रोज्ज्वलाम्। औदार्याकरपादपद्मयुगलामौत्सुख्यदात्रीं परां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

8

अर्काम्भोरुहवैरिवह्निनयनामक्षीणसौभाग्यदां अङ्गाकल्पितरत्नभूषणयुतामण्डौघसंसेविताम्। आज्ञाचक्रनिवासिनीं झलझलन्मञ्जीरपादाम्बुजां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे॥

9

श्रीमङ्गलाम्बा परदैवतं नः श्रीमङ्गलाम्बा परं धनं नः। श्रीमङ्गलाम्बा कुलदैवतं नः श्रीमङ्गलाम्बा परमा गतिर्नः॥

10

अज्ञानिना मया दोषानशेषान्विहितान्शिवे। क्षमस्व त्वं क्षमस्व त्वं शैलराजसुतेऽम्बिके॥

11

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम्। यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते॥