Namamahatmya Ashtakam
Ashtakam
1
कथं बन्धनाशो भवेदाशु देव त्वदीयाङ्घ्रिमूले गतोहं वराकः। सुरोवानरो वायदा जन्मपात्रं ततः किं ततः किं ततः किं नु दुःखम्॥
2
तनोः क्लेशभाजो विचित्रस्य हेतुः कुमोहाम्बरं हि श्रुतेः शास्त्रवाक्यात्। सदैवावृतोहं पठेनैव तेन ततः किं ततः किं ततः किं नु दुःखम्॥
3
हरेर्नाममुक्तिं करं निःसहायं सहोपासनं नोगृहस्थादिधर्मैः। यदा नाम मुक्त्वा करोत्यन्ययोगं ततः किं ततः किं ततः किं नु दुःखम्॥
4
हरेर्नामतुल्यो न वेदादिपाठो व्रतं तीर्थवासो न वायोः प्रयासः। तदन्येषु लग्नो यदा तज्जहाति ततः किं ततः किं ततः किं नु दुःखम्॥
5
अधर्मौघकाष्ठान्स्वभूनामवह्नि- (स्वभू एवं श्रीविष्णु) र्दहत्येव सद्यः समूलाञ्जनानाम्। अतः सेवितव्यं यदानेन मुक्त- स्ततः किं ततः किं ततः किं नु दुःखम्॥
6
विना नाम मोक्षं न भोः सार्वभौम्ये न पैत्रे न चैन्द्रे तथा ब्रह्मलोके। तदर्थं यतेत्त्वं यदा भोगरक्त- स्ततः किम् ततः किं ततः किं नु दुःखम्॥
7
अहं सोऽस्मि सोऽहं मनुर्वेद मूलः सदा कीर्तनीयो गुरोः प्राप्य विज्ञात्। विवेकादियुक्तो न तल्लग्नचेता- स्ततः किम् ततः किं ततः किं नु दुःखम्॥
8
अथोङ्कारमन्त्रो हरेर्नाम मुख्यो निदिध्यासितव्यः सदा बन्धनाशे। यदुक्तं मया तेन तद्बोधता चे- त्ततः किम् ततः किं ततः किं नु दुःखम्॥