Savitrikritam Yama Ashtakam

Ashtakam

1

इत्युक्ता सा तु सावित्री यमं भक्तवरं परम्। ज्ञात्वा यमाष्टकं प्राह श‍ृणु लक्ष्मि! वदामि ते॥

2

सूर्यनारायणस्तीर्थे पुष्करे तपसा पुरा। धर्मेशं यं सुतं प्राप धर्मराजं नमाम्यहम्॥

3

सर्वेषां प्राणिनां कर्मभोगान्तं संविधाय यः। शान्तिं करोति यो देवः शमनाय तु ते नमः॥

4

कृतानां कर्मणां त्वन्तं न्यायरीत्या करोति यः। सर्वेषां देहिनां सोऽयं तं कृतान्तं नमाम्यहम्॥

5

पापिनां दण्डकर्ता यो दण्डं बिभर्ति शुद्धिदम्। शास्त्रे तस्मै नीतियुजे दण्डिने ते नमो नमः॥

6

सर्वेषां वस्तुकार्याणां परिच्छेदं करोति यः। सर्वायुःकलनं देवं कालरूपं नमाम्यहम्॥

7

जीवान् दण्डप्रदानैर्यो यमयत्येव सर्वथा। कर्मानुरूपफलदस्तं यमं प्रणमामि वै॥

8

यथा कर्म तथा दाता न रागान्न च रोषतः। तस्माच्छुद्धिकरं मित्रं सर्वमित्रं नमाम्यहम्॥

9

कृष्णनारायणमूर्तेः समुत्पन्नस्तु यः पुरा। ब्रह्मणोंऽशस्ततो जातस्तं ब्राह्मं प्रणमामि च॥

10

इत्युक्त्वा तं प्रणनाम यमस्तुष्टो बभूव ह। यमाष्टकं पठतस्तु भवेन्नैव यमाद्भयम्॥

11

कायव्यूहेन च शुद्धिः कर्मणां तस्य जायते। मुच्यते यमपाशाच्च सतीं प्राहेति धर्मराट्॥

12

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३७०-अध्यायान्तर्गतं सावित्रीकृतं यमाष्टकं सम्पूर्णम्। लक्ष्मीनारायणीयसंहिता। खण्ड १। अध्याय ३७०/१२-२२॥