Shringararasa Ashtakam
Ashtakam
1
अविदितसुखदुःखं निर्गुणं वस्तु किञ्चित् जडमतिरिह कश्चित् मोक्ष इत्याचचक्षे। मम तु मतमनङ्गस्मेरतारल्यघूर्णन् मदकलमदिराक्षीणीविमोक्षो हि मोक्षः॥
2
कदा कान्तागारे परिमलमिलत्पुष्यशयने शयानः कान्तायाः कुचयुगमहं वक्षसि वहन्। अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेति क्रोशन् निमीषमिव नेष्यामि दिवसान्॥
3
सायं नायमुदेति वासरमणिश्चन्द्रो न चण्डद्युति- र्दावाग्निः कथमम्वरे किमशनिः स्वच्छान्तरीक्षे स्थितः। हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्घोरविभावरी विषधरी भोगस्य भीमो मणिः॥
4
आयाति याति पुनरेव जलं प्रयाति पद्माकराणि विधुनोति धुनोति पक्षौ। उन्मत्तवद्धमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः॥
5
भङ्का भोक्तुं न भुङ्क्त कुटिलविसलता खण्डमिन्दोर्वितर्कात् ताराकारास्तृषार्तो न पिवति पयसां विग्रुषः पचसंस्थाः। छायामम्भोजिनीनामलिकुलसवलां वीक्ष्य सन्ध्यामसन्ध्यां कान्ताविश्लेषभीरुर्दिनमपि रजणीं मन्यते चक्रवाकः॥
6
गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्यमध्ये पपात। अन्धीभूतः कुसुमरजसा कण्ठकलनपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः॥
7
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- र्निक्षेपणव पदमुद्धृतमर्पयन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥
8
का कावला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितवाहुलतानुवड्वा। सा सा तु यातु भवनं मिहिरोहमीयं सङ्केतवाक्यमिति काकचया वदन्ति॥