Shri Mahabalesha Ashtakam
Ashtakam
1
विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम्। मनोरथविवर्धनं दुरितवर्गविध्वंसनं महाबलशिवं भजे महितसर्वकल्याणदम्॥
2
समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं भवार्णवविशोषणं विहितभक्तसन्तोषणम्। चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं नमामि गिरिजापतिं नलिननेत्रमित्रं परम्॥
3
पराभवविवर्जितं जय जयेति देवैर्नुतं नमामि जगतां गुरुं जननमृत्युदूरं हरम्। जनार्दनसहोदरीनयनपद्मभानूपमं पुराणपुरुषार्चितं शरणलोकसंरक्षकम्॥
4
दुराचरणभीषणं दुरितवर्गसंहारिणं महागिरिवराश्रयं मुनिवरेण्यसंसेवितम्। हिरण्यनिधिदायकं करुणयैव संरक्षकं कलाधरसुशेखरं नमत नित्यकल्याणदम्॥
5
महागदविदारणं मदनगर्वविश्लोषणं भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम्। गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं महाबलमुपास्महे निगमगम्यरूपं शिवम्॥
6
शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम्। विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम्॥
7
चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं ममाशु कविताप्रदं करिमुखस्य तातं विभुम्। कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं वरप्रदमहाबलं सुगुणकृष्णभूपावनम्॥
8
मनोरथविदायकं मनुकुलेशसम्पूजितं ह्युमार्धसुकलेवरं विधृतदिव्यगङ्गापगम्। वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे॥
9
महाबलनुतिं जना वचसि धारयन्त्यन्वहं नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम्। सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि॥
10
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदापीठाधीश्वर- जगद्गुरु-शङ्कराचार्य-श्री-श्री-श्री- ``वृद्ध''-नृसिंहभारती-महास्वामिभिः ``गोकर्ण''-क्षेत्रे विरचितं श्री-महाबलेशाष्टकं सम्पूर्णम् ।॥