Shri SubrahmaNyAShTakam or shrIsubrahmaNya karAvalambastotram
Ashtakam
1
हे स्वामिनाथ! करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो। श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम्॥
2
देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद। देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम्॥
3
नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम। शृत्यागमप्रणववाच्यनिजस्वरूप वल्लीशनाथ मम देहि करावलम्बम्॥
4
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल- चापादिशस्त्रपरिमण्डितदिव्यपाणे। var पाशादिशस्त्र श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह var धृततुण्ड वल्लीशनाथ मम देहि करावलम्बम्॥
5
देवाधिदेवरथमण्डलमध्यवेऽद्य देवेन्द्रपीठनकरं दृढचापहस्तम्। शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीशनाथ मम देहि करावलम्बम्॥
6
हारादिरत्नमणियुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिरामम्। हे वीर तारकजयामरवृन्दवन्द्य वल्लीशनाथ मम देहि करावलम्बम्॥
7
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः। पट्टाभिषिक्तहरियुक्त परासनाथ वल्लीशनाथ मम देहि करावलम्बम्॥
8
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम्। सिक्त्वा तु मामव कलाधरकान्तिकान्त्या वल्लीशनाथ मम देहि करावलम्बम्॥
9
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः। ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः॥
10
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत्। कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति॥
11
इति श्रीसुब्रह्मण्याष्टकं अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम्॥