Shri Sadashivashtakam

Ashtakam

1

नन्दिस्कन्धविराजितं गिरिजापतिं सुरसुन्दरं गङ्गाधारकपापनाशकताण्डवप्रियनागरम्। कामध्वंसकयोगकारकमोक्षदायकत्र्यम्बकं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

2

ओङ्कारेश्वरभैरवं प्रमथेश्वरं वटुकेश्वरं श्रीमुक्तेश्वरभीमशङ्करलोकनाथमहेश्वरम्। पातालेश्वरनन्दिकेश्वरशूलिनं कपिलेश्वरं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

3

ईशानेश्वरभूतखेचरक्षेत्रपालकयोगिनं नेत्रज्वालकदक्षनाशकरामतारणकारितम्। कण्ठे वासुकिसर्पशोभितकालकूटविशोषितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

4

ब्रह्मामाधवशक्रभास्करचन्द्रनारदसेवितं हेरम्बानलयक्षमारुतविश्रवासुतपूजितम्। कैलासालयचारिणं परमेश्वरं गिरिवासिनं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

5

योग्नीभीषणकालकौणपरक्षकिन्नरवन्दितं सिद्धश्रीघनजैनगुह्यकनागनायकचर्चितम्। कालीकान्तनृमुण्डलम्बितपादपङ्कजशोभितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

6

लिङ्गे शोभितब्रह्मभास्वरसत्यसौरभनिर्गुणं मायातामससत्त्वराजसगौणकारणकारितम्। विद्यापङ्कजधारिणं पुरुषार्थकारकमङ्गलं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

7

ब्रह्माण्डालयजीवनायकनायकेश्वरपूजितं वं वं वं वमघोषितं विजयारसेन विलासितम्। श्रीश्रीश्री अवधूतशेखरसिद्धगोरखनामितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥

8

श्रीमृत्युञ्जयचन्द्रशेखरश्रीस्वप्नेश्वरशूलिनं मार्कण्डेश्वरश्रीसुरेश्वरभस्मचन्दनलेपितम्। दिक्पालावृतवेदवर्णितदिव्यताधनदायकं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम्॥