shrIgurugajAnanAShTakam

Ashtakam

1

ॐ श्री। श्रीशङ्कर। उद्धारणाय भवसागरतो नराणां श्रीरामदासगुरुरागतवान्पुनश्च। तं पादनम्रमनुजार्तिहरं प्रसन्नं श्रीमद्गजाननगुरुं शिरसा नमामि॥

2

तीर्थेन यस्य पदयोर्भयदोषतापात् संरक्षितश्च मरणोन्मुखजानरावः। तं पापपर्वतपविं भवरोगवैद्यं श्रीमद्गजाननगुरुं शिरसा नमामि॥

3

वापी जडान्तरनिभा मरुभूमिशुष्का पूर्णा जलेन मधुना खलु यत्प्रसादात्। तं स्नेहशून्यहृदये जनितेशभक्तिं श्रीमद्गजाननगुरुं शिरसा नमामि॥

4

कृत्वा श्रुतेः पठनमागमशुद्धरीत्या येनाञ्जसा द्रविडविप्रमदो निरस्तः। तं वेदवर्णित परात्मपदे वसन्तं श्रीमद्गजाननगुरुं शिरसा नमामि॥

5

मञ्चे ज्वलत्यपि निधाय निजासनं यः सिद्धं चकार भगवद्वचनं प्रमाणम्। तत्त्वावबोधबलनिर्जितपावकं तं श्रीमद्गजाननगुरुं शिरसा नमामि॥

6

उच्छृङ्खलाश्वचरणेषु सुखं शयित्वा यो दुष्टभावदमनं कृतवांस्तदीयम्। भक्तस्य मत्तचलचित्तनियामकं तं श्रीमद्गजाननगुरुं शिरसा नमामि॥

7

यस्याज्ञया विनतभक्तजनस्य भिन्नां पारम्निनाय तरणीं स्वयमेव रेवा। दासीकृतात्मबलसर्वचराचरं तं श्रीमद्गजाननगुरुं शिरसा नमामि॥

8

विज्ञापनाऽस्ति मम ते पदयोर्दयालो पूजां च नैव भजनं स्तवनं न जाने। स्वीयेषु मां गणय पापमपाकुरुष्व नो याचतेऽन्यदधुना गणुदासदासः॥