Hanumat Ashtakam

Ashtakam

1

श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो। पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्॥

2

संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः। केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वै त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्॥

3

संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं प्राप्य सुदुःखसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे। घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्॥

4

संसृतिसिन्धुविशालकरालमहाबलकालझषग्रसनार्तं व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम्। कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम्॥

5

संसृतिघोरमहागहने चरतो मणिरञ्जितपुण्यसुमूर्तेः मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसन्धेः। मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथञ्चिदमेयं त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम्॥

6

संसृतिवृक्षमनेकशताघनिदानमनन्तविकर्मसुशाखं दुःखफलं करणादिपलाशमनङ्गसुपुष्पमचिन्त्यसुमूलम्। तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम्॥

7

संसृतिपन्नगवक्त्रभयङ्करदंष्ट्रमहाविषदग्धशरीरं प्राणविनिर्गमभीतिसमाकुलमन्दमनाथमतीव विषण्णम्। मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्॥

8

इन्द्रियनामकचौरगणैर्हृततत्त्वविवेकमहाधनराशिं संसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम्। त्वत्पदपद्ममनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालो त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम्॥

9

ब्रह्ममरुद्गणरुद्रमहेन्द्रकिरीटसुकोटिलसत्पदपीठं दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे। तस्य हनूमत एव शिवङ्करमष्टकमेतदनिष्टहरं वै यः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम्॥