Shri Vinayaka Ashtakam

Ashtakam

1

नमद्देववृन्दं लसद्वेदकन्दं शिरःश्रीमदिन्दुं श्रितश्रीमुकुन्दम्। बृहच्चारुतुन्दं स्तुतश्रीसनन्दं जटाहीन्द्रकुन्दं भजेऽभीष्टसन्दम्॥

2

किलद्देवगोत्रं कनद्धेमगात्रं सदानन्दमात्रं महाभक्तमित्रम्। शरच्चन्द्रवक्त्रं त्रयीपूतपात्रं। समस्तार्त्तिदात्रं भजे शक्तिपुत्रम्॥

3

गलद्दानमालं चलद्भोगिमालं गलाम्भोदकालं सदा दानशीलम्। सुरारातिकालं महेशात्मबालं लसत्पुण्ड्रभालं भजे लोकमूलम्॥

4

उरस्तारहारं शरच्चन्द्रहीरं सुरश्रीविचारं हृतार्त्तारिभारम्। कटे दानपूरं जटाभोगिपूरं कलाबिन्दुतारं भजे शैववीरम्॥

5

करारूढमोक्षं विपद्भङ्गदक्षं चलत्सारसाक्षं पराशक्तिपक्षम्। श्रितामर्त्यवृक्षं सुरारिद्रुतक्षं परानन्दपक्षं भजे श्रीशिवाक्षम्॥

6

सदाशं सुरेशं सदा पातुमीशं निदानोद्भवं शाङ्करप्रेमकोशम्। धृतश्रीनिशेशं लसद्दन्तकोशं चलच्छूलपाशं भजे कृत्तपाशम्॥

7

ततानेकसन्तं सदा दानवन्तं बुधश्रीकरन्तं गजास्यं विभान्तम्। करात्मीयदन्तं त्रिलोककैकवृन्तं सुमन्दं परन्तं भजेऽहं भवन्तम्॥

8

शिवप्रेमपिण्डं परं स्वर्णवर्णं लसद्दन्तखण्डं सदानन्दपूर्णम्। विवर्णप्रभास्यं धृतस्वर्णभाण्डं चलच्चारुशुण्डं भजे दन्तितुण्डम्॥