Shri Arya Ashtakam

Ashtakam

1

करस्थकदलीचूतपनसेष्टकमोदकम्। बालसूर्यप्रतीकाशं वन्दे बालगणाधिपम्॥

2

आर्यां कात्यायनीं देवीमभीष्टफलदायिनीम्। देहि विद्यां महादेवि नमामि त्वां महेश्वरीम्॥

3

महादेवप्रियां कालीं महायोगेश्वरेश्वरीम्। महालक्ष्मीं शिवां गौरीं देहि विद्यां महेश्वरि॥

4

उमां हैमवतीं शुभ्रां कोमलाङ्गी शुभप्रियाम्। नमामि शुभ्रवक्त्रां त्वां देहि विद्यां शिवप्रिये॥

5

पद्महस्तां सहस्राक्षीं सहस्रानललोचनाम्। नौमि दुर्गा भगवतीं देहि विद्यां सुरेश्वरि॥

6

पद्ममन्दिरमध्यस्थां योगिवृन्दैर्निषेविताम्। नौमि विश्वमयीं वाणीं देहि विद्यां सुलोचने॥

7

लक्ष्मीं क्षमां शिवां धात्रीं कल्याणगुणवर्धनीम्। वन्दे त्वां प्रणतार्तिघ्नीं देहि विद्यां सुरेश्वरि॥

8

विधिरूपां हंसवाहां ब्रह्मध्यानपरायणाम्। वरदाभयकरां विद्यां देहि (त्वं) परमेश्वरि॥

9

चारुप्रसन्नमदनां चन्द्रशेखरवल्लभाम्। विद्यां देहि महामाये वन्दे त्वां वृषवाहिनीम्॥

10

आर्याष्टकमिदं पुण्यं यः पठेत् सततं नरः। महादेवीप्रसादेन षण्मासात स कविर्भवेत्॥