vishvakarmAShTakam 1

Ashtakam

1

निरञ्जनो निराकारः निर्विकल्पो मनोहरः। निरामयो निजानन्दः निर्विघ्नाय नमो नमः॥

2

अनादिरप्रमेयश्च अरूपश्च जयाजयः। लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः॥

3

नमो विश्वविहाराय नमो विश्वविहारिणे। नमो विश्वविधाताय नमस्ते विश्वकर्मणे॥

4

नमस्ते विश्वरूपाय विश्वभूताय ते नमः। नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते॥

5

विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः। विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते॥

6

विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः। विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते॥

7

विश्वैकविधवृक्षश्च विश्वशाखा महाविधः। शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः॥

8

तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः। अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च॥