Shri Namashshiva Ashtakam

Ashtakam

1

आद्याय सर्वजगतामखिलेष्टदाय नित्याय निर्जितसुरासुरवैभवाय। कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रे देवाय भक्तवरदाय नमः शिवाय॥

2

गङ्गाधराय गरुडध्वजवन्दिताय गौरीसखाय करुणामृतसागराय। उद्गातने (?) कुसुमकर्बुरकन्धराय पूर्णाय पुष्करकचाय नमः शिवाय॥

3

संसारसागरसमुत्तरणप्लवाय सोमानलार्कनयनाय सुरार्चिताय। दुष्कर्मघर्मजलदाय दुरासदाय दुष्टात्मनां पुरहराय नमः शिवाय॥

4

वेदाय वेदनिलयाय विदां वराय विज्ञानमात्रवपुषे विविधात्मकाय। यज्ञान्तकाय यजतामभयप्रदाय यज्ञार्चिताय गिरिशाय नमः शिवाय॥

5

यन्नाम जन्तुरवशोऽपि गृणन् कदाचित् यामीं न याति भयदामिह यातनालिम्। तस्मै जरामरणजन्मभयातिगाय गन्धर्वगीतयशसेऽस्तु नमः शिवाय॥

6

नान्तं च मध्यमथवादिमजः स चाहं विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि। जानन्ति सन्मुनिवराश्च तथामरेशाः गन्धर्वगीतयशसेऽस्तु नमः शिवाय॥

7

भूतेश्वराय भुजगेन्द्रविभूषणाय भूतित्रयाय भुवनाधिपवन्दिताय। पीताम्बरप्रियसखाय पिनाकदोष्णे नानाविचित्रगतयेऽस्तु नमः शिवाय॥

8

रुद्राय भद्रचरिताय महोक्षगाय शूलाभयानि मृगचर्मपराङ्कुशाय (?)। पादानतार्तिदलनाय पलाशिहन्त्रे मृत्युञ्जयाय विजयाय नमः शिवाय॥

9

इति श्रीनमश्शिवाष्टकं सम्पूर्णम्॥