Kaivalyashtakam or Kevalashtakam

Ashtakam

1

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम्। पावनं पावनेभ्योऽपि हरेर्नामैव केवलम्॥

2

आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत्। सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम्॥

3

स गुरुः स पिता चापि सा माता बान्धवोऽपि सः। शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम्॥

4

निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति। कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम्॥

5

हरिः सदा वसेत्तत्र यत्र भागवता जनाः। गायन्ति भक्तिभावेन हरेर्नामैव केवलम्॥

6

अहो दुःखं महादुःखं दुःखाद्दुःखतरं यतः। काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम्॥

7

दीयतां दीयतां कर्णो नीयतां नीयतां वचः। गीयतां गीयतां नित्यं हरेर्नामैव केवलम्॥

8

तृणीकृत्य जगत्सर्वं राजते सकलोपरि। चिदानन्दमयं शुद्धं हरेर्नामैव केवलम्॥

9

इति नीलकण्ठगोस्वामीविरचितं कैवल्याष्टकम् अथवा केवलाष्टकं सम्पूर्णम्। श्रीकृष्णार्पणमस्तु॥